________________
यथा उरगः खां खचं अवश्यं परित्यागार्हखात् 'जहाति परित्यजति, एवमसावपि साधुः रज इव रजा-अष्टप्रकारं कर्म तदकषायिखेन परित्यजतीति, एवं कषायाभावो हि कर्माभावस कारणमिति 'संख्याय' ज्ञाखा 'मुनिः कालत्रयवेदी 'न माद्यति' मदं न याति, मदकारणं दर्शयति-'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, 'माहण'त्ति साधुः, पाठान्तरं वा 'जे विउत्ति यो विद्वान्-विवेकी स जातिकुललाभादिभिः न माद्यतीति, न केवलं खतो |मदो न विधेयः, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति-'अथ' अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि'त्ति | निन्दा अन्येषामतो न कार्येति, 'मुणी न मजई' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन नियुक्तिकृदाह
तवसंजमणाणेसुवि जइ माणो वजिओ महेसीहिं । अत्तसमुक्करिसत्थं किं पुण हीला उ अन्नेसिं॥४३॥ जइ ताव निजरमओ, पडिसिद्धो अट्ठमाणमहणेहिं । अविसेसमयहाणा परिहरियव्वा पयत्तेणं ॥४४॥
'वेयालियस्स णित्रुत्ती सम्मत्ता' तपःसंयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम्-उत्सेकार्थ यः प्रवृत्तो मानः यद्यसावपि तावद | 'वर्जितः त्यक्तो 'महर्षिभिः' महामुनिभिः, किंपुनर्निन्दाऽन्येषां न त्याज्येति । यदि तावनिर्जरामदोऽपि मोकगमनहेतुः प्रतिषिद्धः 'अष्टमामथनः अर्हद्भिरवशेषाणि तु 'मदस्थानानि जात्यादीनि 'प्रयत्नेन' सुतरां परिहर्त्तव्यानीति गाथाद्वयार्थः ॥ ४३-४४ ॥१॥ साम्प्रतं परनिन्दादोषमधिकृत्याह-'जो परिभवई' इत्यादि, यः कश्चिदविवेकी 'परिभवति'अवज्ञयति, 'परं जनं' अन्य लोकम् आत्मव्यतिरिक्तं स तत्कृतेन कर्मणा 'संसारे' चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन 'परिवर्तते' | १ निर्जराविशेषणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org