________________
सूत्रकृताङ्गं शीलाङ्काचार्यीयवृचियुतं
॥ ६० ॥
मागतो भूखा तं तथाभूतं मनोवाक्कायसंवृतः पुनः 'त्यक्त्वा' परित्यज्य 'वित्तं' द्रव्यं तथा 'ज्ञातींश्च' स्वजनांश्च तथा सावद्यारम्भं च सुष्ठु संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् ॥ २२ ॥ इति वैतालीयद्वितीयाध्ययनस्य प्रथमोदेशकः
समाप्तः ॥
अथ द्वितीयाध्ययने द्वितीय उद्देशकः प्रारभ्यते ॥
प्रथमानन्तरं द्वितीयः समारभ्यते - अस्यं चायमभिसंबन्धः, इहानन्तरोदेशके भगवता स्वपुत्राणां धर्मदेशनाऽभिहिता, तदिहापि सैवाध्ययनार्थाधिकारत्वात् अभिधीयते, सूत्रस्य सूत्रेण सह संबन्धोऽयम् - अनन्तरोक्तसूत्रे बाह्यद्रव्यस्वजनारम्भपरित्यागोऽभिहितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योदेशकस्यादिसूत्रं - तयसं व जहाइ से रयं, इति संखाय मुणी ण मज्जई। गोयन्नतरेण माहणे, अहसेयकरी अनेसी इंखिणी १ | जो परिभवइ परं जणं, संसारे परिवत्तई मेहं । अदु इंखिणिया उपाविया, इति संखाय मुणी ण भज्जई ॥२॥
१ नेसि. २ चिरं पा०
Jain Education International
For Personal & Private Use Only
२ वैताली -
याध्य०
उद्देशः २
॥ ६० ॥
www.jainelibrary.org