________________
णवि ता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो। एवं सहिएहिं पासए, अणिहे से पुढे अहियासए १३ धुणिया कुलियंव लेववं,किसए देहमणासणा इह।अविहिंसामेव पवए, अणुधम्मो मुणिणा पवेदितो १४|| | परीषहोपसर्गा एतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः 'लुप्ये' पीड्ये अपि खन्येऽपि 'प्राणि
न' तथाविधास्तिर्यङ्मनुष्याः असिल्लोके 'लुप्यन्ते' अतिदुःसहैर्दुःखैः परिताप्यन्ते, तेषां च सम्यग्विवेकाभावान्न निर्जराख्यफ|लमस्ति, यतः–'क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः। ध्यातं वित्तमहर्निशं नियमित द्वन्द्वैर्न तत्त्वं परं, तत्तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलैर्वश्चिताः ॥१॥ तदेवं क्लेशादिसहनं सद्विवेकिनां संयमाभ्युपगमे सति गुणायैवेति, तथाहि-कार्य क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले । एतान्येव गृहे वहन्त्यवनति तान्युन्नतिं संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः ॥१॥' एवं सहितो ज्ञानादिभिः खहितो वा आत्महितः सन् 'पश्येत्' कुशाग्रीयया बुद्ध्या पर्यालोचयेदनन्तरोदितं, तथा निहन्यत इति निहः न निहोनिह:-क्रोधादिभिरपीडितः सन् स महासत्त्वः परीषहैः स्पृष्टोऽपि तान् 'अधिसहेत' मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपःसंयमे परीषहसहने वानिगृहितबलवीर्यः, शेष पूर्ववदिति ॥ १३ ॥ अपिच 'धुणिया'
१ अधिकं पृथग्जनान् पश्यतीति चू.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org