________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुत
॥५७॥
जययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा। अणुसासणमेव पक्कमे, वीरोहिं संमं पवेइयं ॥११॥ २ वैतालीविरया वीरा समुट्ठिया, कोहकायरियाइपीसणा। पाणे ण हणंति सवसो, पावाओ विरयाऽभिनिव्वुडा १२ 8
याध्य०
उद्देशः १ ___ स्वल्पं जीवितमवगम्य विषयांश्च क्लेशप्रायानवबुद्ध्य छित्त्वा गृहपाशबन्धनं 'यतमानः' यत्नं कुर्वन् प्राणिनामनुपरोधेन 'विहर' उद्युक्तविहारी भव, एतदेव दर्शयति–'योगवानिति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः, किमित्येवं ?, यतः 'अणवःसूक्ष्माः प्राणाः-प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्देन 'दुस्तरा' दुर्गमा इति, अनेन | इर्यासमितिरुपक्षिप्ता, असाश्चोपलक्षणार्थखात् अन्यावपि समितिषु सततोपयुक्तेन भवितव्यम् , अपिच 'अनुशासनमेव' यथागममेव सूत्रानुसारेण संयम प्रति क्रामेत् , एतच्च सर्वैरेव 'वीरैः' अर्हद्भिः सम्यक् 'प्रवेदितं' प्रकर्षणाख्यातमिति ॥ ११ ॥ अथ है क एते वीरा इत्याह-'विरया' इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः, विशेषेण कर्म प्रेरयन्तीति वीराः, सम्यगारम्भपरित्यागेनोत्थिताः समुत्थिताः, ते एवम्भूताश्च 'क्रोधकातरिकादिपीषणा' तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका-माया तद्ग्रहणाल्लोभो गृहीतः, आदिग्रहणात् शेषमोहनीयपरिग्रहः, तत्पीपणाः-तदपनेतारः, तथा 'प्राणिनो' जीवान् सूक्ष्मेतरभेदभिनान् 'सर्वशो' मनोवाकायकर्मभिः 'न नन्ति' न व्यापादयन्ति, 'पापाच' सर्वतः सावद्यानुष्ठानरूपाद्विरताः-निवृत्तास्ततश्च ॥५७ ॥ 'अभिनिवृत्ताः' क्रोधाद्युपशमेन शान्तीभूताः, यदिवाभिनिवृत्ता इव अभिनिर्वृत्ताः-मुक्ता इव द्रष्टव्या इति ॥ १२॥ पुनरप्युपदेशान्तरमाह
For Personal & Private Use Only
www.jainelibrary.org
in Education International