SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यायवृचियुतं ॥५५॥ कश्चिन्मातापितृभ्यां मोहेन खजनस्नेहेन च न धर्म प्रत्युद्यम विधत्ते स च तैरेव मातापित्रादिभिः 'लुप्यते' संसारे भ्राम्यते, २ वैतालीतथाहि-"विहितमलोहमहो महन्मातापितृपुत्रदारबन्धुसंज्ञम् । स्नेहमयमसुमतामदः किं बन्धनं शृखलं खलेन धात्रा॥१॥" याध्य० तस्य च स्नेहाकुलितमानसस्य सदसद्विवेकविकलस्य खजनपोषणार्थ यत्किञ्चनकारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि 'प्रेत्य' उद्देशः १ जन्मान्तरे नो सुलभा, अपि तु मातापितृव्यामोहितमनसस्तदर्थे क्लिश्यतो विषयसुखेप्सोश्च दुगेतिरेव भवतीत्युक्तं भवति, तदेवमेतानि 'भयानि' भयकारणानि दुर्गतिगमनादीनि 'पहिय'त्ति प्रेक्ष्य 'आरम्भात्' सावद्यानुष्ठानरूपाद्विरमेत् 'सुव्रतः शोभनव्रतः सन् , सुस्थितो वेति पाठान्तरम् ॥३॥ अनिवृत्तस्य दोषमाह-'यद', यस्मादनिवृत्तानामिदं भवति, किं तत् ?-'जगति' पृथिव्यां 'पुढोत्ति पृथग्रभूता–व्यवस्थिताः सावद्यानुष्ठानोपचितैः 'कर्मभि:' 'विलुप्यन्ते नरकादिषु यातनास्थानेषु भ्राम्यन्ते, खयमेव च कृतैः कर्मभिः, न ईश्वरायापादितैः, गाहते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतूनि गाहते-उपचिनोति, अनेन च हेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च 'तस्य' अशुभाचरितस्य कर्मणो विपाकेन 'अस्पृष्टः' । अच्छुप्तो 'मुच्यते' जन्तुः, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति भावः ॥४॥ अधुना सर्वस्थानानित्यता दर्शयितुमाहदेवा गंधवरक्खसा,असुरा भूमिचरा सरिसिवा। राया नरसेट्टिमाहणा, ठाणा तेऽवि चयंति दुक्खिया ॥५॥ कामेहि ण संथवेहि गिद्धा, कम्मसहा कालेण जंतवो। ताले जह बंधणचुए, एवं आउखयंमि तुती ॥६॥ १ कामे हि य संथवे हि य इति पु०, छन्दोऽनुलोमता चात्र, नवरं टीकाकृद्भिः गृद्धा इत्येतद् व्याख्यातं, परं 'न्तिा औपच्छन्दसकम्' इति लक्षणं संगच्छते इति For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy