SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ दिव्यज्ञानेनाष्टापदोपरि व्यवस्थितेन भरताधिपभरतेन चक्रवर्त्तिनोपहतैरष्टनवतिभिः पुत्रैः पृष्टेन यथा भरतोऽमानाज्ञां कारयत्यतः किमस्माभिर्विधेयमित्यतस्तेषामङ्गारदाहकदृष्टान्तं प्रदर्श्य न कथञ्चिजन्तोर्भोगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं 'कथितं ' प्रतिपादितं, तेऽप्येतच्छ्रुत्वा संसारासारतामवगम्य विषयाणां च कटुविपाकतां निःसारतां च ज्ञात्वा मत्तकरिकर्णवच्चपलमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदाज्ञैव श्रेयस्करीति तदन्तिके सर्वे प्रव्रज्यां गृहीतवन्त इति । अत्र 'उद्देसे निद्देसे य' इत्यादिः सर्वोऽप्यु | पोद्घातो भणनीयः ।। ३९ ।। साम्प्रतं उद्देशार्थाधिकारं प्रागुल्लिखितं दर्शयितुमाह- पढमे संबोहो अनिच्चया य वीयंमि माणवजणया । अहिगारो पुण भणिओ तहा तहा बहुविहो तत्थ ॥ ४० ॥ | उद्देसंमि य तहए अन्नाणचियस्स अवचओ भणिओ । वज्जेयब्वो य सया सुहपमाओ जइजणेणं ॥ ४१ ॥ तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोदेश के मानो वर्जनीय इत्ययमर्थाधिकारः, पुनश्च तथा तथाऽनेकप्रकारो बहुविधं शब्दादावर्थेऽनित्यतादिप्रतिपादकोऽर्थाधिकारो भणित इति, तृतीयोदेशके | अज्ञानोपचितस्य कर्मणोऽपचयरूपोऽर्थाधिकारो भणित इति यतिजनेन च सुखप्रमादो वर्जनीयः सदेति ॥ ४१ ॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् संबुज्झह किं न बुज्झह ?, संबोही खलु पेच्च दुलहा । णो हूवणमंति राइओ, नों सुलभं पुणरावि जीवियं ॥१॥ १ यद्यपि विंशत्याद्येति वचनात्स्यादत्र स्त्रीत्वमेकचनान्वितं तथापि प्रतिपुत्रं प्रश्नोत्तरपार्थक्यविवक्षयाऽत्र बहुत्वं । चैत्रमैत्राभ्यामेकविंशती दत्तमितिवत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy