________________
॥ अथ द्वितीयाध्ययनस्य प्रथमोद्देशकः प्रारभ्यते ॥
eeeeeeeeeeeeeeeen
उक्तं समयाख्यं प्रथममध्ययनं, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने खसमयगुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन संबन्धनाऽऽयातस्यास्याध्ययन|स्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधि| कारश्च, तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि-'णाऊण बुज्झणा चेवे'त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधि
कारं तु स्वत एव नियुक्तिकार उत्तरत्र वक्ष्यति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह| वेयालियंमि वेयालगो य वेयालणं वियालणियं । तिन्निवि चउक्कगाई वियालओ एत्थ पुण जीवो ॥३६॥ __तत्र प्राकृतशैल्या वेयालियमिति 'दृ विदारणे इत्यस्य धातोर्विपूर्वस्य छान्दसखात् भावे ण्वुलप्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्रयं सन्निहितं, तद्यथा—कर्ता करणं कर्म चेति, अतस्तद्दर्शयति-विदारको | विदारणं विदारणीयं च, तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाच्चतुर्दा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यानि, अत्र च
नामस्थापने क्षुण्णे, द्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीव| विशेषः, साधुरिति ॥ ३६ ॥ करणमधिकृत्याह
Jain Education International
For Personal & Private Use Only
www.janelibrary.org