________________
१समया०
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं
| उद्देशः४ मूलोत्तरगुणपालन
॥५२॥
|भिज्ञो मुनिः सदा 'विगिंचए'त्ति विवेचयेद्-आत्मनः पृथक्कुर्यादित्यर्थः । ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपकश्रे- |ण्यामारूढो भगवान् क्रोधादीनेव संज्वलनान् क्षपयति, तत् किमर्थमागमप्रसिद्धं क्रममुल्लङ्घयादौ मानस्थोपन्यास इति ?, अत्रोच्यते, | माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्याद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ॥१२॥ तदेवं मूलगुणानुत्तरगुणांचोपदाधुना सर्वोपसंहारार्थमाह-तुरवधारणे, पञ्चभिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपञ्चमहावतोपेतखात्पश्चप्रकारसंवरसंवृतः, तथा मनोवाकायगुप्तिगुप्तः, तथा गृहपाशादिषु सिता-बद्धाः अवसक्ता गृहस्थास्तेष्वसितःअनवबद्धस्तेषु मूर्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्मणादिह्यमानो भिक्षुः-भिक्षणशीलो भावभिक्षुः 'आमोक्षाय' अशेषकर्मापगमलक्षणमोक्षार्थ परि-समन्तात् बजेः-संयमानुष्ठानरतो भवेस्वमिति विनेयस्योपदेशः । इति अध्ययनसमाप्तौ, ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति । गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः “संवेसिपि नयाणं बहुविधवत्तत्वयं निसामित्ता । तं सवणयविसुद्धं जं चरणगुणहिओ साहू ॥१॥" ॥ १३ ॥ ८८ ॥ इति सूत्रकृताङ्गे समयाख्यं प्रथमाध्ययनं समाप्तम् ॥
४॥५२॥
१ प्रकर्षप्राप्तः २ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत्सर्वनयविशुद्ध यचरणगुण (क्रियाज्ञान ) स्थितः साधुः॥१॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org