________________
विविधम् — अनेकप्रकारमुषितः - स्थितो दशविधचक्रवालसामाचार्यां व्युषितः, तथा विगता - अपगता आहारादौ गृद्धिर्यस्यासौ विगतगृद्धिः साधुः, एवंभूतश्चादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं - ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्-अनुपालयेत् यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं पुनश्चारित्रादि पालितं भवतीति दर्शयति- 'चर्यासनशय्यासु' चरणं चर्या - गमनं, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टव्यं तथा शय्यायां वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोगवता भाव्यम्, इदमुक्तं भवति —– ईर्याभाषैषणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावदुद्गमादिदोषरहित| मन्वेषणीयमिति ॥ ११ ॥ पुनरपि चारित्रशुद्धयर्थं गुणानधिकृत्याह – एतानि - अनन्तरोक्तानि त्रीणि स्थानानि तद्यथा - ईर्ष्या - समितिरित्येकं स्थानम्, आसनं शय्येत्यनेनादानभाण्डमात्र निक्षेपणासमितिरित्येतच्च द्वितीयं स्थानं, भक्तपानमित्यनेनैपणासमितिरुपात्ता, भक्तपानार्थं च प्रविष्टस्य भाषणसंभवाद्भाषासमितिराक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापनासमितिरप्यायातेत्येतच्च तृतीयं स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । तथा 'सततम्' अनवरतम् 'मुनिः' सम्यक् यथावस्थितजगत्रयवेत्ता उत्कृष्यते आत्मा दर्पाध्मातो विधीयतेऽनेनेत्युत्कर्षो - मानः, | तथाऽऽत्मानं चारित्रं वा ज्वलयति- दहतीति ज्वलनः - क्रोधः, तथा 'शूम' मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यखादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये - अन्तर्भवतीति मध्यस्थो - लोभः, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायास्तद्विपाका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org