________________
सूत्रकृताङ्गं | अपि च-'सर्वे' जन्तव आक्रान्ता-अभिभूता दुःखेन-शारीरमानसेनासातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थाभाजो लभ्यन्ते,
१ समया० शीलाङ्का- अतः सर्वेऽपि ते यथाऽहिंसिता भवन्ति तथा विधेयं । यदिवा-सर्वेऽपि जन्तवः 'अकान्तम्' अनभिमतं दुःखं येषां तेऽकान्त- उद्देशः ४ चायीयवृ- दुःखाः चशब्दात् प्रियसुखाश्च, अतस्तान् सर्वान् न हिंस्यादित्यनेन चान्यथाखदृष्टान्तो दर्शितो भवत्युपदेशश्च दत्त इति ॥९॥ लोकवादत्तियुतं
| किमर्थ सत्त्वान् न हिंस्यादित्याह-खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्टविवेकवतः 'सारं' न्याय्यं यत् कञ्चन प्राणिजातं निरास: ॥५१॥
स्थावरं जङ्गमं वा 'न हिनस्ति' न परितापयति, उपलक्षणं चैतत् , तेन न मृषा बयानादत्तं गृह्णीयानाब्रह्माऽऽसेवेत न परिग्रह परिगृह्णीयान नक्तं भुञ्जीतेत्येतज्ज्ञानिनः सारं यन्न कर्माश्रवेषु वर्तत इति । अपि च-अहिंसया समता अहिंसासमता तां चैतावद्वि|जानीयात् , यथा मम मरणं दुःखं चाप्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां |
परितापनाऽपद्रावणादि न विधेयमेवेति ॥ १०॥ एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह.. वुसिए य विगयगेही, आयाणं सं(सम्म)रक्खए । चरिआसणसेज्जासु, भत्तपाणे अ अंतसों ॥११॥
एतेहिं तिहिं ठाणेहिं, संजए सततं मुणी। उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ॥ १२॥ || समिए उसया साहु, पंचसंवरसंवुडे। सिएहि असिए भिक्खू , आमोक्खाय परिवएजासि॥१३॥त्तिबेमि॥||॥५१॥ १ विगयगिद्धी य प्र. २ आयाणीयं सरक्खए । चू०
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org