SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ स्यात् , तस्मात्सर्वज्ञखमेष्टव्यं । तथा यदुक्तं-'वापबोधविभागेन परिमितं जानाती'त्येतदपि सर्वजनसमानखे यत्किञ्चिदिति । यदपि च कैश्चिदुच्यते-यथा 'ब्रह्मणः स्वमावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् | प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशौ विद्यते 'न कदाचिदनीदृशं जगदिति वचनात् । तदेवमनन्तादिकं &| लोकवादं परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धन दर्शयति-ये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां | | स्वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः || संपद्यन्ते स्थावरा अपि च त्रसखमश्नुवते तथा त्रसास्त्रसखमेव स्थावराः स्थावरखमेवाऽऽनुवन्ति, न पुनर्यो यादृगिह स ताडगेवामुत्रापि 8 भवतीत्ययं नियम इति ॥८॥ असिन्नेवार्थे दृष्टान्ताभिधित्सयाऽऽह उरालं जगतो जोंगं, विवजासं पलिंति य । सवे अकंतदुक्खा य, अओं सवे अहिंसिता ॥९॥ एयं खु नाणिणो सारं, जन्न हिंसइ किंचण । अहिंसासमयं चेव, एतावन्तं वियाणिया ॥१०॥ & 'उराल'मिति स्थूलमुदारं 'जगत' औदारिकजन्तुग्रामस्य 'योग' व्यापारं चेष्टामवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्बुदरूपाद् 'विपर्यासभूतं' बालकौमारयौवनादिकमुदारं योगं परि-समन्तादयन्तेगच्छन्ति पर्ययन्ते, एतदुक्तं भवति-औदारिकशरीरिणो हि मनुष्यादेर्वालकौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्यादृक् प्राक् तादृगेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्यमिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy