SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अपरिमाणं वियाणाई, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥ ७॥ जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अत्थि से अंजू , जेण ते तसथावरा ॥ ८॥ न विद्यते 'परिमाणम्' इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थकृत् , एतदुक्तं भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्| "सर्व पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ॥१॥" इति, 'इह' असिँल्लोके 'एकेषां' || सर्वज्ञापह्नववादिनाम् 'इदमाख्यातम्' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापन्नमाश्रित्य सह परि-19 माणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते बुवतेदिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो | बहुधा लोकवादः प्रवृत्तः ॥७॥ अस्य चोत्तरदानायाह—ये केचन त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः 'प्राणाः' प्राणिनः सत्त्वाः |'तिष्ठन्ति' त्रसखमनुभवन्ति, अथवा 'स्थावराः' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् यथा यो यादृगमिन् जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तादृगेव भवतीति, ततः स्थावराणां त्रसानां च तादृशले सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपोरन् । लोकेनापि चान्यथाखमुक्तं, तद्यथा-"स वै एष १ कश्चित्तु पक्षे प्रकृतिभावमपीच्छतीति श्रीहेमचन्द्रसूर्युक्तेरत्र प्रकृतिभावसद्भावानापप्रयोगता । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy