SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ समहिस्स कीयं पामिच्च"मित्यादि, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डैषणा नियूढाः, तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम्-"से वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहं च कडासण"मिति, तत्र वस्त्रकम्बलपादपुञ्छनग्रहणाद् वस्त्रैषणा नियूंढा, पतब्रहपदात् पात्रैषणा निर्मूढा, अवग्रह इत्येतस्मादवग्रहप्रतिमा निर्मूढा, कटासनमित्येतस्माच्छय्येति, तथा पञ्चमाध्ययनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रम्-"गामाणुगामं दूइजमाणस्स दुजायं दप्परिकंत" इत्यादिनेर्या सङ्केपेण व्यावर्णितेत्यत एव ईर्याध्ययनं नि!ढम्, तथा षष्ठाध्ययनस्य धूताख्यस्य पञ्चमोद्देशके सूत्रम्-"आइक्खइ विहयइ किट्टइ धम्मकामी"त्येतस्माद्भाषाजाताध्ययनमाकृष्टमित्येवं विजानीयास्त्वमिति । तथा |महापरिज्ञाध्ययने सप्तोदेशकास्तेभ्यः प्रत्येकं सप्तापि सप्तैकका निर्मूढाः, तथा शस्त्रपरिज्ञाध्ययनाद्भावना निर्मूढा, तथा धूताध्ययनस्य द्वितीयचतुर्थोद्देशकाभ्यां विमुक्त्यध्ययनं नि!ढमिति, तथा 'आचारप्रकल्पः'निशीथः, स च प्रत्याख्यानपूर्वस्य यत्तृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो नियूंढ इति ॥ ब्रह्मचर्याध्ययनेभ्य आचाराग्राणि नियूढान्यतो नियूहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनान्नियूढानीति दर्शयति अब्बोगडो उ भणिओ सत्थपरिन्नाय दंडनिक्खेवो । सो पुण विभजमाणो तहा तहा होइ नायब्वो॥११॥ 'अव्याकृतः' अव्यक्तोऽपरिस्फुट इतियावत् 'भणितः' प्रतिपादितः, कोऽसौ?–'दण्डनिक्षेपः' दण्डः-प्राणिपीडालक्षणस्तस्य निक्षेपः-परित्यागः संयम इत्यर्थः, स च शस्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनः विभज्यमानः अष्टस्वप्यध्ययनेष्वसावेव तथा तथा-अनेकप्रकारो ज्ञातव्यो भवतीति ॥ कथं पुनरयं संयमः सद्धेपाभिहितो विस्तार्यते ? इत्याह ASCCCASCENERASACH For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy