________________
GREC
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ उपोद्घातः
॥३२०॥
एगविहो पुण सो संजमुत्ति अज्झत्थ बाहिरो यदुहा । मणवयणकाय तिविहो चउविहो चाउजामो उ॥१२॥ पंच य महव्वयाइं तु पंचहा राइभोअणे छट्ठा । सीलंगसहस्साणि य आयरिस्सप्पवीभागा ॥ १३ ॥
अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्रिविधः, स एव चतुर्यामभेदाच्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्रीभोजनविरतिपरिग्रहाच्च पोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति ॥ किं पुनरसौ संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया भिद्यते ? इत्याह| आइक्खिउं विभइ विन्नाउं चेव सुहतरं होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥१४॥
संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यन्ते ॥ एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायनो विधेयस्तदर्थमाह
तेसिं च रक्खणहा य भावणा पंच पंच इकिके। ता सत्थपरिन्नाए एसो अभितरो होई ॥१५॥ __ 'तेषां च महाव्रतानामेकैकस्य तद्वत्तिकल्पाः पञ्च पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति ॥ साम्प्रतं चूडानां यथास्वं परिमाणमाहजावोग्गहपडिमाओ पढमा सत्तिकगा बिइअचूला भावण विमुत्ति आयारपक्कप्पा तिन्नि इअ पंच ॥१६॥ १ अद्वारसगस्स निप्फत्ती प्र. एसो उ अब्भन्तरो होइ प्र.
SC-SACSC-SCAMG-CA
॥३२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org