________________
नायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेन नाम, तत्र परशब्दस्य पडिधं निक्षेपं दर्शयितुं नियुक्तिकारो गाथाऽर्द्धमाह
छक्कं परइक्किकं त १ दन्न २ माएस ३ कम ४ बहु ५ पहाणे ६। षटुं 'पर' इति परशब्दविषये नामादिः षनिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकं षधिं भवतीति दर्शयति, तद्यथा-तत्परम् १ अन्यपरम् २ आदेशपरं ३ क्रमपरं ४ बहुपरं ५ प्रधानपर ६ मिति, तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्त्तमानं-परमन्यत्तत्परं यथा परमाणोः परः परमाणुः १, अन्यपरं त्वन्यरूपतया परमन्यद् , यथा एकाणुकाद् व्यणुकत्र्यणुकादि, एवं व्यणुकादेकाणुकत्र्यणुकादि २, 'आदेशपरम्' आदिश्यते-आज्ञाप्यत इत्यादेशः-यः कस्यांचिक्रियायां नियोज्यते कर्मकरादिः स चासौ परश्चादेशपर इति ३, क्रमपरं तु द्रव्यादि चतुर्दा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विप्रदेशिकद्रव्यम् , एवं व्यणुकाच्यणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्विगुणकृष्णमित्यादि ४, बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्बहु तद्बहुपरं, तद्यथा-"जीवा पुग्गल समया दव पएसा य पजवा चेव । थोवाणंताणंता विसेसअहिया दुवेऽणंता ॥१॥" तत्र जीवाः स्तोकाः तेभ्यः पुद्गला अनन्तगुणा इत्यादि ५, प्रधानपरं तु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादिः अपदानामर्जुनसुवर्णपनसादिः ६, एवं क्षेत्रकालभावपराण्यपि तत्सरर
आ.सू. ७०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org