________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ३९१ ॥
'बेलोचितानि ' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अनवबद्धास्थीनि कोम - लास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति, एवमादिकां भाषां फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह-स भिक्षुर्बहुसम्भूतफलानाम्रान् प्रेक्ष्यैवं वदेत्, तद्यथा - 'असमर्थाः' अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्कार्थ उक्तः, तथा 'बहुनिर्वर्त्तितफलाः' बहूनि | निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः ' बहूनि संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनवबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आम्रग्रहणं प्रधानोपलक्षणम्, एवंभूतामनवद्यां भाषां भाषेतेति ॥ किञ्च स भिक्षुर्बहुसम्भूता ओषधीर्वीक्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा - पक्का नीला आर्द्राः छविमत्यः 'लाइमाः' लाजायोग्या रोपणयोग्या वा, तथा 'भज्जिमाओत्ति पचनयोग्या भञ्जनयोग्या वा 'बहुखज्जा' बहुभक्ष्याः पृथुककरणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाहं-स भिक्षुर्वहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात्, तद्यथा-रूढा इत्यादिकामसावद्यां भाषां भाषेत ॥ किञ्च -
Jain Education International
से भिक्खू वा० तहपगाराई सद्दाई सुणिज्जा तहावि एयाई नो एवं वइज्या, तंजहा— सुसद्देत्ति वा दुसद्देति वा, एयप्पगारं भासं सावज्जं नो भासिना ।। से भि० तहावि ताई एवं वइज्जा, तंजहा - सुसदं सुसद्दित्ति वा दुसद्दं दुसदित्ति
For Personal & Private Use Only
श्रुतस्कं० २ चूलिका १
भाषा० ४
उद्देशः २
॥ ३९१ ॥
wwww.jainelibrary.org