________________
से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविसिउकामे नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अप्परिहारिएणं सद्धिं गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा ॥ से भिक्खू वा० बहिया वियारभूमि वा विहारभूमि वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया वियारभूमि वा विहारभूमि वा निक्खमिज वा पविसिज वा ।। से भिक्खू वा० गामाणुगामं दूइज्जमाणे नो अन्नउत्थिएण
वा जाव गामाणुगाम दूइजिज्जा ॥ (सू०४) स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्द्ध न प्रविशेत् प्राक् प्रविष्टो वा न निष्क्रामेदिति सम्बन्धः। यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह-तत्रान्यतीर्थिकाः-सरजस्कादयः 'गृहस्थाः' पिण्डोपजीविनो धिग्जातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा-ते पृष्ठतो वा गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाघवं च, तेषां वा स्वजात्याधुत्कर्ष इति, अथ पृष्ठतस्ततस्तत्रद्वेषो दातुर्वाऽभद्रकस्य, लाभं च दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथा परिहरणं-परिहारस्तेन चरति पारिहारिकः-पिण्डदोषपरिहरणादुद्युक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः 'अपरिहारिकेण' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपेण न प्रविशेत्, तेन सह प्रविष्टानामनेषणीयभिक्षाग्रहणाग्रहणकृता दोषाः, तथाहि-अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहासङ्खडादयो दोषाः, तत एतान् ४ दोषान् ज्ञात्वा साधुहपतिकुलं पिण्डपातप्रतिज्ञया तैः सह न प्रविशेन्नापि निष्कामेदिति ॥ तैः सह प्रसङ्गतोऽन्य
भादौ प्राणवृत्तिने या, स एवंगुणकालाग्रहणा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org