SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः१ ॥३२३॥ सति न प्रतिगृह्णीयात् । साम्प्रतमेतदेव सूत्रं विपर्ययेणाह-स एव भावभिक्षुर्याः पुनरौषधीरेवं जानीयात्, तद्यथा-'अकृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्च पूर्ववच्चर्चः, 'अस्वाश्रयाः' विनष्टयोनयः, 'द्विदलकृता' ऊर्ध्वपाटिताः 'तिरश्चीनच्छिन्नाः' कन्दलीकृताः तथा तरुणिकां वा फलीं जीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति ॥ ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह से भिक्खू वा० जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा बहुरयं वा भुंजियं वा मंथु वा चाउलं वा चाउलपलंब वा सई संभज्जियं अफासुयं जाव नो पडिगाहिजा ॥से भिक्खू वा० जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा जाव चाउलपलंब वा असई भजियं दुक्खुत्तो वा तिक्खुत्तो वा भजियं फासुयं एसणिजं जाव पडिगाहिजा ॥ (सू०३) स भावभिक्षुहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिवीयादेरग्निना ये लाजाः क्रियन्ते त इति, बहु रजः-तुषादिकं यस्मिंस्तद्बहुरजः, 'भुजिय'न्ति अग्यर्द्धपक्कं गोधूमादेःशीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः 'मन्थु चूर्ण तथा 'चाउलाः' तन्दुलाः शालिव्रीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं सकृद् एकवारं 'संभज्जियंति आमर्दितं किञ्चिदग्निना किञ्चिदपरशस्त्रेणापासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत्, नवरं यदसकृद्-अनेकशोऽग्यादिना पक्कमामर्दितं वा दुष्पक्कादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृह्णीयादिति ॥ साम्प्रतं गृहपतिकुलप्रवेशविधिमाह ॥३२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy