________________
BRNRRRRRG
भावइरियाओ दुविहा चरणरिया चेव संजमरिया य । समणस्स कहं गमणं निहोसं होई परिसुद्धं ? ॥३०७॥ ___ भावविषयेर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसख्येयेषु संयमस्थाने| प्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु 'अभ्र वभ्रमभ्र चर गत्यर्थाः' चरते वे ल्युट् चरणं तद्रूपेर्या चरणेर्या, चरणं गतिर्गमनमित्यर्थः, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूपं गमनं निर्दोष भवति ? इति ॥ आह
आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥ ३०८॥ 'आलम्बनं' प्रवचनसङ्घगच्छाचार्यादिप्रयोजनं 'काल' साधूनां विहरणयोग्योऽवसरः 'मार्गः' जनैः पद्भ्यां क्षुण्णः पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं, तदेवमालम्बनकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडश[विधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह| चउकारणपरिसुद्धं अहवावि (ह)होज कारणजाए। आलंबणजयणाए काले मग्गे य जइयव्वं ॥ ३०९॥
चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवाऽकालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवति, एवंभूते च मार्गे साधुना यतितव्यमिति ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याह
सब्वेवि ईरियविसोहिकारगा तहवि अस्थि उ विसेसो। उहेसे उसे बुच्छामि जहकम किंचि ॥३१॥
-
-
dain Education International
For Personal & Private Use Only
www.jainelibrary.org