SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ ईष०३ उद्देशः १ 'सर्वेऽपि त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाह| पढमे उवागमण निग्गमो य अद्धाण नावजयणा य । बिइए आरूढ छलणं जंघासंतार पुच्छा य ॥ ३११॥ प्रथमोद्देशके वर्षाकालादावुपागमनं-स्थान तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्य छलनं-प्रक्षेपणं व्यावय॑ते, जवासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ॥ | तइयंमि अदायणया अप्पडिबंधो य होइ उवहिंमि । वजेयव्वं च सया संसारियरायगिहगमणं ॥ ३१२॥ | तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधिकारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च तेषामाख्येयमिति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् अब्भुवगए खलु वासावासे अभिपवुढे बहवे पाणा अभिसंभूया बहवे बीया अहुणाभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जाव ससंताणगा अणभिकता पंथा नो विन्नाया मग्गा सेवं नच्चा नो गामाणुगामं दूइज्जिज्जा, तओ संजयामेव वासावासं उवल्लिइजा ॥ (सू० १११) आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामा ॥३७५॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy