________________
पर्यालोच्य गीतार्थो गृह्णीयादिति ॥ अथ कथञ्चिदनाभोगात्संसक्तमागामिसत्त्वोन्मिश्रं वा गृहीतं तत्र विधिमाह| 'से आहच्चे'त्यादि स च भावभिक्षुः 'आहच्चेति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात्प्रतिगृह्णीयात् , स चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, 'तम्' एवंभूतमशुद्धमाहारमादायकान्तम् 'अपक्रामेत्' गच्छेत् , तं 'अपक्रम्य, गत्वेति । यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयतिअथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाशब्दो विकल्पार्थः शून्यगृहाद्युपसद्महार्थो वा, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोऽभाववचनः, अपगताण्ड इत्यर्थः, एवमल्पबीजेऽल्पहरिते 'अल्पावश्याये' अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा 'अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके तत्रोत्तिङ्गस्तृणाग्रउदकबिन्दुः, [भुञ्जीतेत्युत्तरक्रियया सम्बन्धः] पनकः-उल्लीविशेषः, उदकप्रधाना मृत्तिका उदकमृत्तिकेति, मर्कट:-सूक्ष्मजीवविशेषस्तेषां सन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्तं तद् 'विविच्य विविच्य' त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिःशेषतामाह, 'उन्मिश्रं वा' आगामुकसत्त्वसंवलितं सत्तुकादि ततः प्राणिनः 'विशोध्य विशोध्य' अपनीयापनीय 'ततः' तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिबेद्वा रागद्वेषविप्रमुक्तः सन्निति, उक्तञ्च-"वायालीसेसणसंकडंमि
१द्वाचत्वारिंशदेषणासंकटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भुजन् रागद्वेषाभ्यां (तथा प्रवर्तख)॥१॥ रागेण साङ्गार द्वेषेण सधूमकं | | विजानीहि । रागद्वेषविमुक्तो भुञ्जीत वा निर्जराप्रेक्षी ॥ २ ॥
CAROSSA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org