SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३२१॥ सिसि वा गोमयरासिंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संज- श्रुतस्कं०२ यामेव परिट्ठविज्जा ॥ (सू० १) चूलिका १ 'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्त्तते, यः कश्चिद्भिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विवि पिण्डैष०१ धाभिग्रहरतः 'भिक्षुणी वा' साध्वी, स भावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानि चामूनि-"वेअण १ | उद्देशः १ वेआवच्चे २ इरियट्ठाए य ३ संजमाए ४ । तह पाणवत्तियाए ५ छह पुण धम्मचिंताए ६॥१॥” इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपतिः-गृहस्थस्तस्य कुलं-गृहं तदनुप्रविष्टः, किमर्थ?–'पिंडवायपडियाए'त्ति | पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञया-अहमत्र भिक्षां लप्स्य इति, स प्रविष्टः सन् यत्पुनरशनादि जानीयात् , कथमिति दर्शयति-'प्राणिभिः' रसजादिभिः 'पनकैः' उल्लीजीवैः संसक्तं 'बीजैः' गोधूमादिभिः 'हरितैः' दूर्वाऽङ्करादिभिः 'उन्मिश्र' शबलीभूतं, तथा शीतोदकेन वा 'अवसिक्तम्' आर्द्राकृतं 'रजसा वा' सचित्तेन 'परिघासियंति परिगुण्डितं, कियद्वा वक्ष्यति ? 'तथाप्रकारम्' एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं 'परहस्ते' दातृहस्ते परपात्रे वा स्थितम् | 'अप्रासुकं' सचित्तम् ‘अनेषणीयम्' आधाकर्मादिदोषदुष्टम् 'इति' एवं मन्यमानः 'स' भावभिक्षुः सत्यपि लाभे न प्रतिगृह्णीयादित्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादिः भावो ग्लानतादिः, इत्यादिभिः कारणैरुपस्थितैरल्पबहुत्वं १ वेदना वैयावृत्त्यं ईर्थं च संयमार्थं च । तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥१॥ ३२१॥ Jain Education inemalnonal For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy