SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ पिण्डैष०१ | उद्देशः१ ॥३२२॥ गहणमि जीव! ण हु छलिओ । इण्हि जह न छलिज्जसि भुंजतो रागदोसेहिं ॥१॥रागेण सइंगालं दोसेण सधूमगं वियाणाहि । रागद्दोसविमुक्को भुंजेजा निजरापेही ॥२॥" यच्चाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्यादशुद्धपृथक्करणासम्भवाद्वा स भिक्षुः 'तद्' आहारजातमादायैकान्तमपक्रामेत् , अपक्रम्य च तदाहारजातं 'परिष्ठापयेत्' त्यजेदिति सम्बन्धः, यत्र च परिष्ठापयेत्तदर्शयति–'अर्थ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थः 'झामेति दग्धं तस्मिन् वा स्थण्डिलेऽस्थिराशौ वा किट्टो-लोहादिमलस्तद्राशौ वा तुषराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्युपसंहरति-अन्यतरराशौ वा 'तथाप्रकारे पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्ष्णा प्रमृज्य २ रजोहरणादिना, अत्रापि द्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यप्रत्युपेक्ष्य प्रमृजन् स्थानात्स्थानसङ्क्रमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं ५, सुप्रत्युपेक्षितं दुष्प्रमार्जितं ६, सुप्रत्युपेक्षितं सुप्रमार्जितमिति ७, स्थापना । तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले 'संयत एवं सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिकल्पनया 'परिष्ठापयेत्' त्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह से भिक्खू वा भिक्खूणी वा गाहावइ० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिज्जा-कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवुच्छिण्णाओ तरुणियं वा छिवाडिं अणभिकंतभज्जियं पेहाए अफासुयं अणेसणि ॥३२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy