________________
भूतो दुर्लभ इति, ते चामी मूलोत्तरगुणा:-"पट्टी वंसो दो धारणाओ चत्तारि मूलवेलीओ । मूलगुणेहिं विसुद्धा एसा आहागडा वसही ॥१॥ वंसगकडणोकंपण छायण लेवण दुवारभूमीओ। परिकम्मविप्पमुक्का एसा मूलुत्तरगुणेसु ॥२॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अ वत्ता य । सित्ता सम्मावि अ विसोहिकोडीगया वसही ॥३॥" अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धा भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा-'छादनतः' दर्भादिना, 'लेपनतः' गोमयादिना संस्तारकम्-अपवर्त्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहल्लघुत्वापादानतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चित्प्रतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत् , तहे निषिद्धाचरणमग्रहे तत्पद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम्-"मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेवेज सव्वकालं विवज्जए हुंति दोसा उ ॥१॥" मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चर्यारताः-निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निषीधिकारताः' स्वाध्यायध्यायिनः शय्या-सर्वाङ्गिकी संस्तारकः-अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या
१ पृष्टिवैशो द्वे धारणे चतस्रो मूलवेल्यः । मूलगुणैर्विशुद्धा एषा यथाकृता वसतिः॥१ वंशककटनोत्कम्पनच्छादनलेपनं द्वारभूमेः । परिकर्मविप्रमुक्ता एषा | मूलोत्तरगुणैः ॥ २॥ धवलिता धूपिता वासिता उद्योतिता कृतबलिका च व्यक्ता च । सिक्का संमृष्टाऽपि च विशोधिकोटीगता वसतिः ॥३॥ २ मूलोत्तरगुणशुद्धां | स्त्रीपशुपण्डकविवर्जितां वसतिम् । सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org