SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३६९ ॥ तदर्थ संस्तारकः शय्या संस्तारकस्तत्र केचिद्रताः ग्लानादिभावात्, तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' भवन्ति केचन भिक्षवः 'एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियागः - संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविनः, एवंविशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु तेषु तैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु 'सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतां छलनां विदध्युः, तद्यथा - प्राभृतिकेव प्राभृतिका - दानार्थं कल्पिता वसतिरिह गृह्यते, सा च तैर्गृहस्थैः 'उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा 'परिभाइयपुत्र'ति पूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिरियं परित्यक्तेति, यदि च भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः इत्येवमादिका छलना पुनः सम्यग् विज्ञाय परिहर्त्तव्येति, ननु किमेवं छलनासम्भवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुर्व्याकुर्वन् - कथयन् सम्यगेव व्याकरोति ?, यदि - वैवं व्याकुर्वन् सम्यग् व्याकर्त्ता भवति ?, आचार्य आह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्त्ता भवतीति ॥ तथा| विधकार्यवशाञ्चरककार्पटिकादिभिः सह संवासे विधिमाह सेभिक्खू बा ० से जं पुण उवस्सयं जाणिज्जा खुड्डियाओ खुडदुवारियाओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगा० उवस्सए राओ वा वियाले वा निक्खममाणे वा प० पुरा हत्थेण वा पच्छा पाएण वा तओ संजयामेव निक्खमिज वा २, Jain Education International For Personal & Private Use Only श्रुतस्कं० २ चूलिका १ शय्यैष० २ उद्देशः ३ ॥ ३६९ ॥ www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy