________________
Ke
श्रीआचाराङ्गवृत्तिः (शी०) ॥३६८॥
श्रुतस्कं०२
चूलिका |शय्यैष०२ उद्देशः ३
एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रैः प्रतिपादिताः, आसु चाभिकान्ताल्पक्रिये योग्ये शेषास्त्वयोग्या इति॥ द्वितीयाध्ययनस्य द्वितीयः॥२-१-२-२॥ | उक्तो द्वितीयोद्देशकोऽधुना तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाह
से य नो सुलभे फासुए उंछे अहेसणिजे नो य खलु सुद्धे इमेहिं पाहुडेहिं, तंजहा–छायणओ लेवणओ संथारदुवारपिहणओ पिंडवाएसणाओ, से य भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उज्जुया नियागपडिवन्ना अमायं कुब्वमाणा वियाहिया, संतेगइया पाहुडिया उक्खित्तपुव्वा भवइ, एवं निक्खित्तपुव्वा
भवइ, परिभाइयपुव्वा भवइ, परिभुत्तपुव्वा भवइ परिद्ववियपुव्वा भवइ, एवं वियागरेमाणे समियाए वियागरेइ ?, . हंता भवइ ॥ (सू० ८७)
अत्र च कदाचित्कश्चित्साधुर्वसत्यन्वेषणार्थ भिक्षार्थ वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा-प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिमभिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत-न केवलं पिण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः-आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, 'उंछ' इति छादनाधुत्तरगुणदोषरहितः, एतदेव दर्शयति-'अहेसणिजे'त्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथा
॥३६८॥
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only