________________
' एवं पृथग्विभिन्नलक्षणेन विभिन्नमुत्सेचनादिकं शस्त्र प्रवेशिस्त्रमकायस्यास्तीति प्रति
18||sवधारणार्थः, अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्य, नान्यथेति, 'एत्थ'त्ति एतस्मिन् अप्काये प्रस्तुते 'अनुविचिन्त्य'
विचार्य इदमस्य शस्त्रमित्येवं ग्राह्यं, 'पश्ये' त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रमप्कायस्यास्तीति प्रतिपादितम् , एतदेव दर्शयति–'पुढो सत्थं पवेदितं' 'पृथग्' विभिन्नमुत्सेचनादिकं शस्त्रं 'प्रवेदितम्' आख्यातं भगवता, पाठान्तरं वा 'पुढोऽपासं पवेदितं' एवं पृथग्विभिन्नलक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं प्रवेदितम्-आख्यातं भगवता, अपाशः-अबन्धनं शस्त्रपरिणामितोदकग्रहणमबन्धनमाख्यातमितियावद् ॥ एवं तावत्साधूनां सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः, ये पुनः शाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमत एवाप्कायं विहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषां, किमन्यदित्यत आह
अदुवा अदिन्नादाणं (सू० २६) __ 'अथवेति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः, अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं प्राणातिपातः, अपि त्वदत्तादानमपि तत्तेषां, यतो यैरप्कायजन्तुभिर्यानि शरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् सचित्तशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं हि तस्य तत्, परपरिगृहीतत्वात् , परकीयगवाद्यादानवत्, एवं तानि शरीराण्यजीवपरिगृहीतानि गृहृतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तपय इति, ततश्च नादत्तादानं, स्वामिनाऽनुज्ञातत्वात् , परानुज्ञातपश्वादिघातवत्, नन्वेतदपि साध्यावस्थमेवोपन्यस्तं, यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैरुच्चैरारटन्विशस्यते,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org