________________
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययनं १ उद्देशकः३
COLOCACASSACROCESCROSS
इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमकायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च, तत्र योऽचित्तोऽपकायस्तेनोपयो- गविधिः साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः? किं स्वभावादेवाहोश्विच्छस्त्रसम्बन्धात् ?, उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नु श्रूयते-भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाइदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थ च, तथाहि-सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरति जलं, न पुनर्निरिन्धनमेवेति, अतो यद्बाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आह
सत्थं चेत्थं अणुवीइ पासा, पुढो सत्थं पवेइयं (सू० २५) शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं, तच्चोत्सेचनगालनउपकरणधावनादि स्वकायादि च वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाः शस्त्रं, (तथाहि-अग्निपुद्गलानुगतत्वादीषपिङ्गलं जलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो विरसं स्पर्शत उष्णं तच्चोद्धृत्तत्रिदण्डम् , एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्बन्धात् स्तोकमध्यबहुभेदात् , स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या, एवमेतत् त्रिविधं शस्त्रं, चशब्दो
विलक्षणाः शस्त्रं,(तथाहि-अग्निपुद्गला
त तः कल्पते, नान्यथा, तथा
॥४६॥
त्रिविधं शस्त्रं, चशब्दो
लोकं स्तोकापधावस्यं यदि वापङ्गलं जलं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org