________________
तदेवाबोधिलाभाय भवति, स एतत्सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य श्रुत्वा भगव-|| तोऽनगाराणां वाऽन्तिके इहैकेषां साधूनां यत् ज्ञातं भवति तदर्शयति-'एषः' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एष खलु मार एष खलु नरक इत्येवमर्थ गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्प्राग्वत् व्याख्येयं, पुनरप्याह-'से बेमी'त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवमुपलब्धानेकाप्कायतत्त्ववृत्तान्तो ब्रवीमि-'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिताः-पूतरकमत्स्यादयो |यानुदकारम्भप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धः-प्रागुक्तमुदकशस्त्रं समारभमाणोऽन्यानप्यनेकरूपान् जन्तून | विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह-'सन्ति पाणा' इत्यादि पूर्ववत्, कियन्तः पुनस्त इति | |दर्शयति-'जीवा अणेगा' पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थ, ततश्चेदमुक्तं भवति-एकैकस्मिन् जीव|भेदे उदकाश्रिता 'अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तनिश्रितप्रभूतसत्त्वव्यापत्तिकारिणो द्रष्टव्याः॥ शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति
इहं च खलु भो! अणगाराणं उदयजीवा वियाहिया (सू० २४) __ खलुशब्दोऽवधारणे 'इहैव' ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिफ्टिके 'अनगाराणां' साधूनाम् 'उदकजीवा' उद-2 करूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणकभ्रमरकमत्स्यादयो जीवा व्याख्याताः, अवधारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः ॥ यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्सरिभोगे सति प्राणातिपातभाजः साधव,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org