________________
अध्ययनं १ उद्देशकः २
श्रीआचा-साभावपरियून औदयिकभावोदयात्प्रशस्तज्ञानादिभावविकलः, कथं विकला?, अनन्तगुणपरिहाण्या, तथाहि-पञ्चचतुस्विद्येकेराङ्गवृत्तिः |न्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्सन्ना इति, उक्तं च-"सर्वनिकृष्टो (शी०)- जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥ १॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा
जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोहभिः॥२॥" स च विषयकषायातः प्रशस्तज्ञाननः किमवस्थो भवतीति दर्शयति-'दुस्संबोध' इति, दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतायवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवम्?, यतः 'अवियाणए'त्ति विशिष्टावबोधरहितः, स चैवंविधः किं विदध्यादित्याह-'अस्मिन् पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्राद्धीते वा 'व्यथ भयचलनयोरितिकृत्वा व्यथितं भीतमिति, 'तत्थ तत्थे ति तेषु तेषु कृषिखननगृहकरणादिषु 'पृथग्'विभिन्नेषु कार्येषुत्पन्नेषु 'पश्येति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बह्वादेशो भवतीति, 'आतुरा' विषयकषायादिभिः 'अस्मिन् पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकार्य 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरातोंऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखा
१ कश्चित्तु प्र० अपरो दुःसम्बोधः नास्तीदं.
ति, तन, सिद्धान्तशैल्या एकादेशरतापयन्ति' परि-समन्तावालाको विषयकषायादिमि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org