________________
रिमोहनीयादिभिभावान्तया ॥१॥" यदिवा ज्ञानयजीवराशिरित्यर्थः, भावाच्या, यस्मा
टादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो। ज्ञाता-आतंपदार्थज्ञस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावार्त्त इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकादित्वाद्धिताहितविचारशून्यमना भावार्तः कर्मोपचिनोति, यत उक्तम्-"सोइंदियवसट्टे णं भंते! जीवे किं बंधइ ? किं चिणाइ? किं उव|चिणाइ?, गोयमा! अह कम्मपगडीओ सिढिलबंधणबद्धाओ घणियबंधणबद्धाओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टइ" एवं स्पर्शनादिष्वप्यायोजनीयम् , एवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च-"रोगबोसकसाएहिं, इंदिएहि य पञ्चहिं। दुहा वा मोहणिजेण, अट्टा संसारिणो जिया ॥१॥" यदिवा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽर्तः, कः पुनरेवंविध इत्यत्राह-लोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदर्याप्रशस्तभावोदयवर्त्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स सर्वोऽपि परियूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधाद्रव्यभावभेदात् , तत्र सचित्तद्रव्यपरिघुनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिङ्नो जीर्णपटादिः,
१ श्रोत्रेन्द्रियवशात्तॊ भदन्त ! जीवः किं बध्नाति ? किं चिनोति ? किमुपचिनोति ?, गौतम ! अष्ट कर्मप्रकृतीः शिथिलबन्धनबद्धा गाढबन्धनबद्धाः प्रकरोति, यावदनादिकमनवनताग्रं दीर्घाध्वानं चातुरन्तसंसारकान्तारमनुपर्यटति. २ रागद्वेषकषायै रिन्द्रियैश्च पञ्चभिः । द्विधा मोहनीयेन वा आर्ताः संसारिणो जीवाः॥१॥
SEX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org