________________
तयेऽस्मिन्-पृथिवीकायलोके विषयभूते पृथिवीकार्य नानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीति सूत्रार्थः॥१४॥ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत्सरिहर्तुकाम आह
संति पाणा पुढो सिया लजमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभेमाणा अणेगरूवे
पाणे विहिंसइ (सू० १५) 'सन्ति' विद्यन्ते 'प्राणाः' सत्त्वाः 'पृथग्' पृथग्भावेन, अङ्गलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता वा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति-नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह-'लजमाणा पुढो पास'त्ति, लज्जा द्विविधा-लौकिकी लोकोत्तरा च, तत्र लौकिकी स्नुषासुभटादेः श्वशुरसङ्ग्रामविषया, लोकोतरा सप्तदशप्रकारः संयमः, तदुक्तम्-“लज्जा दया संजम बंभचेर'मित्यादि, लज्जमानाः-संयमानुष्ठानपराः, यदिवा
१ लज्जा दया संयमो ब्रह्मचर्यम्.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org