________________
अध्ययन
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः२
प्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घट्टितः कश्चित्सरितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ॥ वधद्वारमाहपवयंति य अणगारा ण य तेहि गुणेहि जेहिं अणगारा। पुढविं विहिंसमाणा न हु ते वायाहि अणगारा॥१९॥ । इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः' प्रव्रजिताः, न च तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्त्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्तन्ते तदर्शयति-यतस्तेऽहर्निशं पृथिवीजन्तुविपत्तिकारिणो दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम् , अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम् , अतश्च यतिगुणकलापशून्या न वाड्मात्रेण युक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्द्धन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः, स चायं प्रयोगः-कुतीथिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद् , इह |ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्त्तन्ते, गृहस्थवत् ॥ साम्प्रतं दृष्टान्तगर्भ निगमनमाहअणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा। निहोसत्ति य मइला विरइदुगंछाइ मइलतरा ॥१०॥ _ 'अनगारवादिनो' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः 'अगारिसमा' गृहस्थ|तुल्या भवन्ति, अभ्युच्चयमाह-सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात् 'मलिना' कलुषितहदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानात्मिकाया विरतेः 'जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भव
॥३३॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org