SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ द्वार-शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्त्रमपि समासविभागभेदाविधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाहहलकुलियविसकुद्दालालित्तयमिगसिंगकट्ठमग्गी य । उच्चारे पासवणे एयं तु समासओ सत्थं ॥९५॥ तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्युच्चारप्रश्रवणादिकमेतत् 'समासतः' संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशस्त्रप्रतिपादनायाहकिंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु व्वसत्थं भावे अ असंजमो सत्थं ॥९६॥ किञ्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किञ्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति । तच्च सर्वमपि द्रव्यशस्त्रं, भावे पुनः 'असंयमः' दुष्प्रयुक्ता मनोवाकायाः शस्त्रमिति ॥ वेदनाद्वारमाह पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं। जह हुंति नरा दुहिया पुढविक्काए तहा जाण ॥ ९७॥ __यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि ॥ यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह नत्थि य सि अंगुवंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवायए पाणे ॥९८॥ | पूर्वार्द्ध गतार्थ, केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयु-1 |रिति । तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आर्द्रामलक SAGAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy