SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३२॥ अध्ययनं १ उद्देशकः२ णता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालं तत्र तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽह बायरपुढविक्काइयपजत्तो अन्नमन्नमोगाढो। सेसा ओगाहंते सुहमा पुण सव्वलोगंमि ॥ ९१॥ __ बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति ॥ उपभोगद्वारमाहचंकमणे य हाणे निसीयण तुयदृणे य कयकरणे । उच्चारे पासवणे उवगरणाणं च निक्खिवणे ॥१२॥ आलेवण पहरण भूसणे य कयविक्कए किसीए य । भंडाणंपि य करणे उवभोगविही मणुस्साणं ॥९३ ॥ चङ्कमणोद्धस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवणउपकरणनिक्षेपआलेपनाहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति ॥ यद्येवं ततः किमित्यत आह एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥९४॥ एभिश्चमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-'सातं' सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, 'परस्य' पृथिव्याश्रितजन्तुराशेः 'दुःखम्' असातलक्षणं तदुदीरयन्ति-उत्सादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ॥ अधुना शस्त्र ॥ ३२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy