SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ SLAASAASEOSARAS तीति ॥ एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयमेवोपात्तत्वेन तद्व्याख्यानस्य न्याय्यत्वात्, तच्चेदं सूत्रम् 'लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणे'त्यादि ॥ अयं च वधः कृतका| रितानुमतिभिर्भवतीति तदर्थमाह केई सयं वहंती केई अन्नेहिँ उ वहाविंती। केई अणुमन्नंती पुढविकायं वहेमाणा ॥१०१॥ स्पष्टा, तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाहजो पुढवि समारंभइ अन्नेऽविय सो समारभइ काए । अनियाए अनियाए दिस्से य तहा अदिस्से य॥१०२॥ __ यः पृथ्वीकायं 'समारभते' व्यापादयति सः 'अन्यानपि' अप्कायद्वीन्द्रियादीन् 'समारभते' व्यापादयति उदुम्बरव|टफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्टत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाईत्ति अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान्' दर्दुरादीन् 'अदृश्यान्' पनकादीन् । 'समारभते' व्यापादयतीत्यर्थः॥ एतदेव स्पष्टतरमाह पुढविं समारभंता हणंति तन्निसिए य बहुजीवे । सुहुमे य बायरे य पज्जत्ते या अपज्जत्ते॥१०३॥ स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाहएयं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं तिविहेण सम्वकालं मणेण वायाए काएणं ॥१०४॥ 'एवमित्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy