SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२९॥ पृथिव्या एवं सम्भावनीयमिति । उक्तं च प्रज्ञापनायाम्-"तत्थ णं जे ते पजत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं 13 अध्ययन रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई जोणिपमुहसयसहस्साई पजत्तयणिस्साए अपजत्तया वक्कमंति, उद्देशकः२ तं जत्थेगो तत्थ नियमा असंखेज्जा, से त्तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्काः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह वण्णंमि य इकिके गंधंमि रसंमि तह य फासंमि । नाणत्ती कायव्वा विहाणए होइ इकिकं ॥ ७८॥ वर्णादिके एकैकस्मिन् 'विधाने' भेदे सहस्राग्रशो नानात्वं विधेयं, तथाहि-कृष्णो वर्ण इति सामान्यं, तस्य च भ्रमराङ्गारकोकिलगवलकजलादिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगासरकेसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुप्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः ॥ पुनरपि पर्याप्तकादिभेदा - दमाहजे बायरे विहाणा पज्जत्ता तत्तिआ अपज्जत्ता । सुहुमावि हंति दुविहा पज्जत्ता चेव अपज्जत्ता ॥७९॥ ४॥२९॥ भावनीयमिति प्र. २ तत्र ये ते पर्याप्तकाः एतेषां वर्णादेशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राप्रशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्कामन्ति, तद् यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy