________________
पुढवी य सकरा वालुगा य उवले सिला य लोणूसे । अय तंब तउअसीसग रुप्प सुवण्णे य वइरे य॥७३॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अन्भपडलब्भवालुअ बायरकाए मणिविहाणा ॥७४॥ गोमेजए य रुयगे अंको फलिहे य लोहियक्खे य । मरगय मसारगल्ले भुयमोयग इंदनीले य॥७२॥ चंदप्पह वेरुलिए जलकंते चेव सूरकन्ते य । एए खरपुढवीए नामं छत्तीसयं होइ ॥७६ ॥
अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः॥ एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाहवण्णरसगंधफासे जोणिप्पमुहा भवंति संखेना । णेगाइ सहस्साई हुंति विहाणंमि इक्किक्के ॥ ७७ ॥
तत्र वर्णाः शुक्लादयः पञ्च रसास्तिक्तादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदुकर्कशादयः अष्टौ, तत्र वर्णादिके एकैकस्मिन् 'योनिप्रमुखा' योनिप्रभृतयः संख्यया भेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात्
१ चंदण गेरुय हंसग भुयमोय मसारगल्ले य प्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org