SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 'इति' एतदहं ब्रवीमि यत्प्रागुक्तं यच्च वक्ष्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वेति शस्त्रपरिज्ञायां प्रशमोदेशकः समाप्तः ॥ उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयः प्रस्तूयते - अस्य चायमभिसम्बन्धः - प्रथमोदेशके सामान्येन जीवास्तित्वं प्रसा धितम् इदानीं तस्यैवे केन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिर्न भवति विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथि व्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योदेशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथि व्यास्तु यन्निक्षेपादि सम्भवति तन्निर्युक्तिकृद्दर्शयितुमाह 1 पुढary निकखेवो परूवणालक्खणं परीमाणं । उवभोगो सत्थं वेयणा य वहणा निवित्तीय ॥ ६८ ॥ प्राग् जीवोदेशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशङ्कनीयं यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्च्चयैव तस्य चिन्तितत्वादिति । तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः, प्ररूपणा - सूक्ष्मबादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिकं, परिमाणं- संवर्त्तितलोकप्रतरासंख्येयभागमात्रादिकम् उपभोगः - शयनासनचङ्क्रमणादिकः, शस्त्रं- स्नेहाम्ल क्षारादि, वेदना - स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा, वधः - कृतकारितानुमतिभिरुपमर्द्दनादिकः, निवृत्तिः - अप्रमत्तस्य मनोवाक्कायगुघ्याऽनुपमर्दादिकेति समासार्थः । व्यासार्थं तु निर्युक्तिकृद्यथाक्रममाह— Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy