SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अध्ययन उद्देशकः१ श्रीआचा सर्वस्मिन् 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्व प्रतिपादिताः 'कर्मसमारम्भाः' क्रियाविशेषाः, नैतेभ्योराङ्गवृत्तिः |ऽधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिति भावः तथाहि-आत्मपरोभयहिकामुष्मिका(शी०) तीतानागतवर्त्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति ॥१२॥ एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदर्योपसंहारद्वारेण ॥२७॥ विरतिं प्रतिपादयन्नाह जस्सेते लोगंसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिणायकम्मे (सू० १३) त्तिबेमि ॥ प्रमथोद्देशकः १॥ भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-'यस्य' मुमुक्षोः 'एते' पूर्वोक्ताः कर्मसमारम्भाः' क्रियाविशेषाः कमणो वा-ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भा-उपादानहेतवस्ते च क्रियाविशेषा एव, परि-समन्तात् ज्ञाताः -परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनि - परिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन ताच मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवा ॥२७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy