________________
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशकः१
॥२६४॥
विधत्त इति गाथाचतुष्टयार्थः॥ अनया च द्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्या क्रमेण आहारं परितनुं कुर्वत आहाराभिलापोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाहकह नाम सो तवोकम्मपंडिओ जो न निचजुत्तप्पा । लहवित्तीपरिक्खेवं वचइ जेमंतओ चेव ? ॥२७४॥
आहारेण विरहिओ अप्पाहारो य संवरनिमित्तं । हासंतो हासंतो एवाहारं निरंभिजा ॥ २७५ ॥ | कथं नामासौ तपःकर्मणि पण्डितः स्यात् ?, यो न नित्यमुद्युक्तात्मा सन् वर्तनं वृत्तिः-द्वात्रिंशत्कवलपरिमाणल-| क्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो भुञ्जान एव न ब्रजति कथमसौ तपःकर्मणि पण्डितः स्यात् ?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वा वासरान् स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थ?-'संवरनिमित्तम्' अनशननिमित्तं, एवमसावुपवासैः प्रतिपारणकमल्पाहारतया च हासयन् हासयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः॥ उक्तो नामनिष्पन्नो निक्षेपस्तनियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से बेमि समणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंच्छणं वा नो पादेजा नो निमंतिजा नो कुजा वेयावडियं परं आढायमाणे तिबेमि (सू० १९७)
॥२६४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org