________________
सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तद्भवीमि ?-वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा' वाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञःशाक्यादिस्तस्य वा, अश्यत इत्यशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिमं नालिकेरादि, स्वाद्यत इति स्वादिम-कर्पूरलवङ्गादि, तथा वस्त्रं वा पात्रं वा पतदहं वा कम्बलं वा पादपुञ्छनं वा, नो प्रदद्यात्-प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुपभोगाय नो वितरेत , नापि दानार्थं निमन्त्रयेत् , न च तेषां वैयावृत्त्यं कुर्यात् , परम्-अत्यर्थमाद्रियमाण इति, अत्यर्थमादरवान्न तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह
धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिया नो लभिया भुंजिया नो भुंजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्मं जोसेमाणे समेमाणे चलेमाणे पाइजा
वा निमंतिज वा कुज्जा वेयावडियं परं अणाढायमाणे तिबेमि (सू० १९८) ते हि शाक्यादयः कुशीला अशनादिकमुपदश्यैवं अयुः, यथा-ध्रुवं चैतज्जानीयात्-नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वावाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मद्धृतयेऽवश्यमागन्तव्यं, अलब्ध
आ. सू. ४५
19
dain Education International
For Personal & Private Use Only
www.jainelibrary.org