________________
निप्फाईया य सीसा सउणी जह अंडगं पयत्तेणं । बारससंवच्छरियं सो संलेहं अह करेइ ॥२७० ॥ चत्तारि विचित्ताइं विगईनिजूहियाइं चत्तारि । संवच्छरे य दुन्नि उ एगंतरियं तु आयामं ॥ २७१ ॥ नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आयामं । अन्नेवि य छम्मासे होइ विगिटुं तवोकम्मं ॥२७२॥ वासं कोडीसहियं आयाम काउ आणुपुवीए । गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥ २७३ ॥ सूत्रार्थतदुभयैः स्वशिष्याः प्रातीच्छका वा 'निष्पादिता' योग्यतामापादिताः शकुनिनेवाण्डक प्रयत्नेन, ततोऽसौ 'अर्थ' अनन्तरं द्वादशसांवत्सरिकी संलेखनां करोति, तद्यथा-चत्वारि वर्षाणि 'विचित्राणि' विचित्रतपोऽनुष्ठानवन्ति |भवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृते पारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनि चतुर्थमपरेधुराचाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते-तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थ षष्ठं वा विधाय परिमितेनाचाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवतः पूर्वोक्तमेव पारणकं, द्वादशं तु संवत्सरं कोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुङ्क्ते, आचाम्लस्य कोव्याः कोटिं |मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तैलगण्डूषानस्खलितनमस्काराद्यध्ययनायापगतवातमुखय
न्त्रप्रचारार्थ पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्व्या सर्व विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं 8 लगत्वा स्थण्डिलं प्रत्युपेक्ष्य 'अर्थ' अनन्तरं पादपोपगमनं करोति, इङ्गितमरणं वा भक्तप्रत्याख्यानं वा यथासमाधि
Jain Educa
For Personal & Private Use Only
w.jainelibrary.org