SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ PARASOOSAAREIGAS शिरसि परानीकनिशिताकृष्टकृपाणनिर्यत्प्रभासंवलितोद्यत्सूर्यत्विडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकम्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति । किं च-विविधं परीषहोपसगैहन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपःपरीषहोपसग्गैः फलकवदवतिष्ठते न कातरीभवति, तथा कालेनोपनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिलपादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः 'कालं' मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्ध भेदो भवति तावदाकालेद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्यादिकं पूर्ववदिति, पञ्चमोद्देशकः, तत्समाप्तौ समाप्तं धूताख्यं षष्ठमध्ययनमिति ॥ ग्रं० ८३५ ॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy