________________
श्रीआचा- राङ्गवृत्तिः (शी०)
धुता० ६ उद्देशकः५
॥२५८॥
विमे ग्रन्थग्रथिता विषण्णाः कामभराक्रान्ता जना 'लूषिणो' लूषणशीलाः हिंसका अज्ञानमोहोदयात् 'न परिवित्रसन्ति' न बिभ्यति, यो ह्येवम्भूतांश्चारम्भान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरति तस्यैते सुपरिज्ञाता भवन्ति । यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह-'स' महामुनिः पूर्वव्यावर्णितस्वरूपो 'वान्त्वा' त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थं मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति, चकारो हीतरेतरापेक्षया समुच्चयार्थः । स एवं क्रोधादीन् वान्त्वा मोहनीय त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः-अपसृतो व्याख्यातस्तीर्थकृदादिभिरितिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत् पूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह
कायस्स वियाघाए एस संगामसीसे वियाहिए से हु पारंगमे मुणी, अविहम्ममाणे फलगावयट्टी कालोवणीए कंखिज कालं जाव सरीरभेउत्तिबेमि (सू० १९६) ६-५॥
धूताध्ययनम् ॥६॥ 'कायः' औदारिकादित्रयं घातिचतुष्टयं वा तस्य 'व्याघातो' विनाशः, अथवा चीयत इति कायस्तस्य विशेषेणाङ्गमर्यादयाऽऽयुष्कक्षयावधिलक्षणया घातो व्याघातः-शरीरविनाशः एष सङ्ग्रामशीर्षरूपतया व्याख्यातो, यथा हि सङ्ग्राम
॥२५८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org