________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥२४८॥
पाचार्यसमीपे संसारासारतामवगम्य प्रवव्राज, क्रमेण चाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पं प्रतिपित्सः द्वि-R धुता० ६ तीयां सत्त्वभावनां भावयति, सा च पश्चधा-तत्र प्रथमोपाश्रये द्वितीया तबहिः तृतीया चतुष्के चतुर्थी शून्यगृहे प-11
उद्देशकः३ ञ्चमी श्मशाने, तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच-मम ज्यायान् भ्राता वास्ते ?, साधुभिरभाणि-किं तेन?, स आह-प्रव्रजाम्यहं, आचार्येणोक्तो-गृहाण तावत् प्रव्रज्यां पुनर्द्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः-किं तेन दृष्टेन ?, नासौ कस्यचिदुल्लापमपि ददाति, जिनकल्प प्रतिपतुकाम इति, असावाह-तथाऽपि पश्यामि तावदिति, निबन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च नि|षिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहात्तथैव तस्थौ यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिनिश्चिक्षेप, ततस्तज्यायान् हृदयेनैव देवतामाह-किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सा त्ववादीत्-जीवप्रदेशैर्मुक्ताविमौ गोलको न शक्यौ पुनर्नवीकर्तुं इत्युक्त्वा ऋषिवचनमलङ्घनीयमित्यवधार्य तत्क्षणश्वपाकव्यापादितैलाक्षिगोलको गृहीत्वा तदक्ष्णोश्चकार । इत्येवमनुपदेशप्रवर्त्तनं सापायमित्यवधार्य शिष्येण सदाऽऽचार्योपदेशवर्त्तिना भाव्यम् , आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक् स्वशिष्या यथो-4॥२४८ ॥ तविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरन्नाह-यथा द्विजपोतो मातापितृभ्यामनुपाल्यते एवमाचा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org