________________
अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीनः - असलिलप्लुतोऽव रुग्णवाहनानामितरेषां च बहूनां जन्तूनां शरण्यतयाऽऽश्वासहे| तुर्भवत्येवमसावपि धर्मः 'आर्यप्रदेशितः' तीर्थकरप्रणीतः कषतापच्छेदनिर्घटितोऽसन्दीनः, यदिवा कुतर्काप्रधृष्यत - याऽसन्दीनः - अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति । तस्य चार्यदेशितस्य धर्म्मस्य किं सम्यगनुष्ठायिनः केचन सन्ति ?, ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह- 'ते' साधवो भावसन्धानोद्यताः संयमारतेः प्रणोदका मोक्षनेदिष्ठा भोगाननवकाङ्क्षन्तो धर्मे सम्यगुत्थानवन्तः स्युरिति एतदुत्तरत्रापि योज्यम्, तथा प्राणिनोऽनतिपातयन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यं, तथा कुशलानुष्ठानप्रवृत्तत्वादयिताः सर्वलोकानां तथा 'मेधाविनो' मर्यादाव्यवस्थिताः 'पण्डिताः' पापोपादान परिहारितया सम्यक्पदार्थज्ञा धर्म्मचरणाय समुत्थिता भवन्तीति । ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापि पूर्वोक्तसमुत्थानवन्तः स्युः ते तथाभूता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह - 'एवम्' उक्तविधिना 'तेषाम्' अपरिकर्मितमतीनां 'भगवतो' वीरवर्द्धमानस्वामिनो धर्मे सम्यगनुत्थाने सति तत्परिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति, अत्रैव दृष्टान्तमाह-द्विजः - पक्षी तस्य पोतः शिशुः द्विजपोतः स यथा तेन द्विजेन गर्भप्रसवात् प्रभृत्यण्डकोच्छूनो|च्छूनतरभेदादिकास्ववस्थासु यावन्निष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षकः प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपात्यते यावद्गीतार्थोऽभूत्, यः पुनराचार्योपदेशमुल्लङ्घय स्वैरित्वाद्यथा कथञ्चित्त्रियासु प्रवर्त्तते स उज्जयिनी राजपुत्रवद्विनश्येदिति, तद्यथा - उज्जयिन्यां जितशत्रो राज्ञो द्वौ पुत्रौ, तत्र ज्येष्ठो धर्म्मघो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org