________________
येणापि शिष्या अहर्निशम् 'अनुपूर्वेण' क्रमेण 'वाचिताः' पाठिताः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । धूताध्ययने तृतीयोद्देशकः परिसमाप्त इति ॥
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके शरीरोपकरणधूननाs| भिहिता, सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्तद्भूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेहिं तेसिमंतिए पन्नाणमुवलब्भ हिच्चा उवसमं फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोत्ति मन्नमाणा आघायं तु सुच्चा निसम्म, समणुन्ना जीविस्सामो एगे निक्खमते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमजोसयंता
सत्थारमेव फरुसं वयंति (सू० १८८) 'एवम्' इति द्विजपोतसंवर्द्धनक्रमेणैव 'ते शिष्याः' स्वहस्तप्रवाजिता उपसम्पदागताः प्रातीच्छकाश्च दिवा च रात्रौ च
JainEducatioralI
nal
For Personal & Private Use Only
Linelibrary.org