________________
धता०६
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः३
॥२४६॥
त्वादल्पाहारत्वाच्च प्रायशः खलत्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच्च प्रतन्वेव शोणितं तत्तनुत्वान्मांस- मपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचे
लतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति सम्बन्धः, 'संसारश्रेणी' संसारावतू तरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणी कृत्वा, तथा 'परिज्ञाय' ज्ञात्वा च समत्वभावनया, तद्यथा-जि
नकल्पिकः कश्चिदेककल्पधारी द्वौ त्रीन् वा बिभर्ति, स्थविरकल्पिको वा मासार्द्धमासक्षपकः तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, उक्तं च-"जोवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ । न हु ते हीलेंति परं सव्वेवि हु ते जिणाणाए ॥१॥" तथा जिनकल्पिकः प्रतिमाप्रतिपन्नो वा कश्चित्कदाचित् षडपि मासानात्मकल्पेन भिक्षां न लभेत तथाऽप्यसौ कूरगडुकमपि यथौदनमुण्डस्त्वमित्येवं न हीलयति । तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य 'एष' उक्तलक्षणो मुनिः तीर्णः संसारसागरं एष एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति । ब्रवीमीतिशब्दौ पूर्ववत् ॥ तदेवं संसारश्रेणी विश्लेषयित्वा यः संसारसागरतीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्मणोऽभिभवेदित्येतदेवाह
॥२४६॥
विरयं भिक्खु रीयंतं चिरराओसियं अरई तत्थ किं विधारए ?, संधेमाणे समुट्ठिए,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org