________________
जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अणवकंखमाणा पाणे अणइवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुट्टाणे जहा से दिया - पोए एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइय तिबेमि ( सू० १८७ ) धूताध्ययने तृतीयोदेशकः ॥ ६-३ ॥
विरतमसंयमाद् भिक्षणशीलं भिक्षं 'रीयमाणं' निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्त्तमानं चिररात्रं- प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् ' अरतिः' संयमोद्विग्नता ' तत्र' तस्मिन् संयमे प्रवर्त्तमानं 'किं विधारयेत्' किं प्रतिस्खलयेत् ?, किंशब्दः प्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिर्विधारयेत्, ओमित्युच्यते, तथाहि - दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्रा कर्म्मपरिणतिः किं न कुर्यादिति, उक्तं च - " कम्मोणि णूणं घणचिक्कणाई गरुयाई वइरसाराई । णाणहिअंपि पुरिसं पंथाओ उप्पहं | णिति ॥ १॥" यदिवा किं क्षेपे, किं तथाभूतं विधारयेदरतिः ?, नैव विधारयेदित्यर्थः, तथाहि असौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुकर्म्मा भवतीति, कुतस्तमरतिर्वि (र्न वि)धारयेदित्याह-क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितः उत्तरोत्तरं गुणस्थानकं वा संदधानो यथाख्यातचा१ कर्माणि नूनं धनकठोराणि गुरुकानि वज्रसाराणि । ज्ञानस्थितमपि पुरुषं पथ उत्पथं नयन्ति ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org